वाल्मीकिमहर्षिः श्रीमद्रामायणस्य कर्ता। अयम् आदिकविरित्युच्यते। #वन्दे_वाल्मीकिम् #ValmikiJayanti
रत्नाकरः इति वाल्मीकेः मूलं नाम। प्रचेतसः पुत्रः इति कारणेन प्राचेतसः इति अस्य अपरं नाम। जन्मना अयं व्याधः आसीत्।
#वन्दे_वाल्मीकिम् #ValmikiJayanti
रत्नाकरः अरण्यमार्गे गच्छतः जनान् भाययित्वा चौर्यं कृत्वा जीवति स्म। एकदा तस्मिन् मार्गे नारदमहर्षिःसमागतः।
नारदमहर्षिं दृष्ट्वा चौर्यं कर्तुं रत्नाकरः तत्सकाशं गतवान्। रत्नाकरः यथार्थमवगच्छति। ज्ञानोदयः सञ्जायते।
#वन्दे_वाल्मीकिम् #ValmikiJayanti
एकदा वाल्मिकिमहर्षिः शिष्येण भारद्वाजेन सह स्नानार्थं तमसानदीं प्रति गतवान् आसीत्। स्वप्रियतमस्य वियोगेन बहु
दुःखितां पक्षिणीं दृष्ट्वा आर्द्रचित्तः वाल्मीकिः झटिति तस्मै व्याधाय शापं प्रायच्छत्। तस्य मुखात् शापः श्लोकरूपेण निःसृतः। #वन्दे_वाल्मीकिम् #ValmikiJayanti
मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः।
यत्क्रौञ्चमिथुनादेकमवधि: काममोहितम्॥ #वन्दे_वाल्मीकिम् #ValmikiJayanti
रावणवधानन्तरं कस्यचन रजकस्य वचनं श्रुत्वा रामेण सीता परित्यक्ता। तस्मिन्नवसरे वाल्मीकिमुनेः आश्रमे सीता
आश्रिताऽभूत्। आश्रमे एव कुशलवयोः जननमभवत्। बालकयोः शस्त्राभ्यासः शास्त्राभ्यासश्च वाल्मीकिमुनिना एव कारितः।
#वन्दे_वाल्मीकिम् #ValmikiJayanti
प्राचीन भारतस्य दर्शनं श्रीवाल्मीकिरामायणे अस्ति। आदिकविः वाल्मीकिः श्रीरामावतारचरितं सुन्दरकाव्यं कृतवान्।
#वन्दे_वाल्मीकिम् #ValmikiJayanti
श्रीरामायण महाकाव्ये २४००० श्लोकाः सन्ति। करुणरसपूर्णमेतत् काव्यं विश्वमान्यमस्ति। आश्वयुजमासस्य पूर्णिमादिने प्रतिवर्षं
वाल्मीकिजयन्तीम् आचरन्ति। #वन्दे_वाल्मीकिम् #ValmikiJayanti
वाल्मीकिमहर्षे पूर्वचरितं विशिष्टमस्ति। प्रचेतसामुनिना त्यक्तः सुतः, व्याधैः पालितः, सहवासफलात् किरातः एव आसीत्। वने
गच्छतः जनान् पीडयित्वा तेषां धनकनकादि स्वीकरोति स्म। तस्य नाम रत्नाकर इत्यासीत्। प्रतिदिनं प्राणिहत्यां करोति स्म।
#वन्दे_वाल्मीकिम् #ValmikiJayanti
एकदा सप्तर्षयः तेन मार्गेण गच्छन्तः वल्मीकात् व्याधं बहिरानीय तस्मै वाल्मीकिः इति नूतनं नाम दत्तवन्तः। अनन्तरं
तमसानदीतीरे वाल्मीकिमहर्षिः वासं कृतवान्। शिष्याः अपि आश्रमे आगतवन्तः। #वन्दे_वाल्मीकिम् #ValmikiJayanti
वाल्मीकिः अध्ययनाध्यापनेषु निरन्तरं कार्याणि कुर्वन्नासीत्। एकदा स्नानाय गच्छन् क्रौञ्चपक्षिणः अतिनादं श्रुतवान्। एकः
व्याधः क्रौञ्चपक्षिणं मारितवानासीत् सा घटना वाल्मीकेः मनसि अपूर्वं परिणामं कृतवती। तदा वाल्मीकिमुखात् शोकः
श्लोकरुपेण आगतः। #वन्दे_वाल्मीकिम् #ValmikiJayanti
ब्रह्मदेवः एव वाल्मीकिमहर्षये रामचरितं वर्णितवान्। वाल्मीकिः सुन्दरं रामायणकाव्यं विरचितवान् वाल्मीकिः रामायणकाले
आश्रमे आसीत्। अन्ते च यदा श्रीरामः सीतां त्यक्तवान् तदा वाल्मीकिः सीतां गर्भिणीं पालितवान्। #वन्दे_वाल्मीकिम्
#ValmikiJayanti
आश्रमे एव सीतायाः लवकुशौ पुत्रौ सञ्जातौ। अनन्तरं वाल्मीकिः सीतां लवकुशौ च श्रीरामाय समर्पितवान्। लवकुशौ
रामायणकाव्यं मधुरतया गीतवन्तौ इति रामायणकाव्येन ज्ञातं भवति। #वन्दे_वाल्मीकिम् #ValmikiJayanti
रामायणे मुख्यतया श्रीरामस्य जीवनं, रावणस्य जीवनं तथा प्रासङ्गिकता वालिसुग्रीवादिनां चरितं तथा अन्येषां चरितानि
वर्णितानि सन्ति। बालकाण्डम्, अयोध्याकाण्डम्, अरण्यकाण्डम्, किष्किन्धाकाण्डम्, सुन्दरकाण्डम्, युध्दकाण्डम्, उत्तरकाण्डम् इति
च सप्तकाण्डाः सन्ति। #वन्दे_वाल्मीकिम्
अयोध्यायाः राज्ञां सात्विकं जीवनं, लङ्कानगरे स्थितानां रावणादीनां क्रूरराक्षसजीवनं किष्किन्धानगरे स्थितानां सुग्रीवः वाली
इत्यादीनां कपिजीवनं च रामायणे वर्णितानि सन्ति। #वन्दे_वाल्मीकिम् #ValmikiJayanti
वाल्मीकिः दशरथस्य पुत्रप्रेम, रामलक्ष्मण भरतशतुध्नानां सहोदरसम्बन्धं, रामहनुमत्स्वामिसेवकसम्बन्धं, रामविभीषणयोः
स्वामिभक्तसम्बन्धं च अत्युत्तमतया वर्णितवानस्ति। #वन्दे_वाल्मीकिम् #ValmikiJayanti
श्रीरामः मर्यादापुरुषोत्तमः, एकपत्नीव्रतस्थः, सत्य वाक्यपालकः, प्रजावत्सलः इति च प्रसिध्दः। सीता पतिव्रता आर्यधर्मप्रिया इति
निरुपितास्ति। #वन्दे_वाल्मीकिम् #ValmikiJayanti
विविधैः पात्रैः मारीच सुग्रीव शुर्पनखा मन्थरा वाली कुम्भकर्ण गुह जटायु प्रभृतिभिः सेवा वात्सल्य क्रौर्य दास्य
स्नेहा गुणान् लोकेभ्यः ज्ञापितवान् वाल्मीकिः। #वन्दे_वाल्मीकिम् #ValmikiJayanti
रावणः बलशाली अहङ्कारी शिवभक्तोऽपि परदारासक्त्या मारितः। तथैव राक्षसाः अहङ्कारः स्वार्थपरता क्रूरता इत्यादिभिः
युक्ताः श्रीरामेन मारिताः। एवं धर्मरक्षणम् अधर्मनाशनं च श्रीरामावतारस्य उद्देशः इति श्रीरामः प्रदर्शितवान्।
#वन्दे_वाल्मीकिम् #ValmikiJayanti
रामायणे धार्मिकव्यवहाराणां पूजादिनां वर्णनमस्ति सामाजिकविषयाणां निरुपणमस्ति सन्धान राजदूताभारादि राजकीयवृत्तान्ताः
सन्ति। दया क्षमा सेवादीनां विवरणम् अस्ति। अन्ते श्रीरामः लवकुशयोः राज्यं समर्प्य स्वयं सरयूनदीं प्रविष्टवान्।
#वन्दे_वाल्मीकिम् #ValmikiJayanti
वाल्मीकिः किरातरुपं त्यक्त्वा रामनामजपेन तपसा महर्षिः अभवत्। रामायणकाले एकः मुख्यपात्ररुपी च अस्ति।
#वन्दे_वाल्मीकिम् #ValmikiJayanti
रामायणे भारतस्य पूर्वेतिहासः वर्णितः अस्ति। भारतीय संस्कृतेः च सम्यग्दर्शनं वाल्मीकिरामायणेन भवति। अग्रे रामायणम्
अनेककविजनानां स्फूर्तिदायकं महाकाव्यमिति प्रसिध्दम् अभवत्।#वन्दे_वाल्मीकिम् #ValmikiJayanti
ब्रह्मा आकाशवाण्या वाल्मीकिं आदिशत्-ऋषे! कुरु रामायणं काव्यम्। तत्र च रामचरितं वर्णय, येन रामस्य पुण्यं चरित्रं विदित्वा
लोकाः सन्मार्गस्यानुसरणं कुर्युः।” #वन्दे_वाल्मीकिम् #ValmikiJayanti
वाल्मीकिः संस्कृतस्य आदिकविः। #वन्दे_वाल्मीकिम् #ValmikiJayanti
पुरा वाल्मीकिः नाम एक ऋषिः आसीत्। व्याधेन विधम् एकं क्रौञ्चपक्षिणम् अपश्यत्। ततः प्रभृति ऋषिरय कविपदम् प्राप्तः।
अयं कविः संस्कृतस्य आदिकविः उच्यते। #वन्दे_वाल्मीकिम् #ValmikiJayanti
संस्कृसाहित्यनभसि आर्षकवित्वेन व्यासवाल्मिक्योः महती प्रसिद्धिः दृश्यते। काव्यं कथं भवेत् इति निर्धारणाय मानदण्डत्वेन
वाल्मीकिप्रणीतं रामायणम् एव गृह्यते कविभिः। #वन्दे_वाल्मीकिम् #ValmikiJayanti
वाल्मीकिःआदिकविः, रामायणं च आदिकाव्यम्। रामायणं न केवलं काव्यग्रन्थः अपि तु धर्मग्रन्थः अपि अस्ति।
#वन्दे_वाल्मीकिम् #ValmikiJayanti
रामायणं हि मानवजीवनस्य सर्वस्वम् अस्ति। रामायणं हि श्रेयोमार्गप्रदर्शकं ज्योतिः विद्यते। #वन्दे_वाल्मीकिम्
#ValmikiJayanti
रामायणम्संस्कृतसाहित्ये रामायणपदेन वाल्मीकिविरचितं रामायणम् एव प्रसिद्ध्यति। भारतीयैःरामायणम् आदिकाव्यं
वाल्मीकिश्च तत्प्रणेतृतया आदिकविः अभिधीयते। #वन्दे_वाल्मीकिम् #ValmikiJayanti
रामायणे न केवलं युद्धम् एव वर्णितम् अपि तु रूपकोपमाद्यलङ्कारयुतायां भाषायां प्रकृतेः अपि वर्णनं
कृतम्।#वन्दे_वाल्मीकिम् #valmikijayanti
एतादृशस्य आदिकवेः देशकालकृतिविषयिणी चिन्ता अत्यन्तं कष्टसाध्या अस्ति। तथापि अन्यान् ग्रन्थान् वीक्ष्य देशकालादिकम्
अनुमीयते। #वन्दे_वाल्मीकिम् #valmikijayanti
वाल्मीकेः स्थितिकालविषये सम्प्रति अपि इदम् इत्थन्तया वक्तुं नैव पार्यते तथापि एतद् अनुमीयते यत् स महर्षेः व्यासात्
अपि प्राचीनः आसीत्। #वन्दे_वाल्मीकिम् #valmikijayanti
रामायणे महाभारतवर्णितस्यकस्यापि पात्रस्य नाम न उपलभ्यते, महाभारते तु रामकथा वर्णिता लभ्यते। महाभारतस्य
सप्तमपर्वणिलङ्काकाण्डगतं पद्यद्वयं प्राप्यते। बौद्धधर्मस्य उदयात् प्राक् एव वाल्मीकिः आसीत्। #वन्दे_वाल्मीकिम्
#valmikijayanti
रामायणीया रामकथा कियता परिवर्तनेनदशरथजातकनाम्ना जातकग्रन्थस्य अङ्गभावं प्राप्ता। तत्र पालिभाषया अनूदितं पद्यम्
अपि प्राप्यते। #वन्दे_वाल्मीकिम् #valmikijayanti
मृगयायां दशरथः श्रवणकुमारं हतवान् इति रामायणकथा सामजातके वर्ण्यते। बौद्धसाहित्यस्यविशेषज्ञः सिल्वालेविमहोदयः
स्पष्टम् अभिप्रेति यत् सद्धर्मस्मृत्युपस्थाननाम्नः बौद्धग्रन्थस्य मूलंरामायणम् अवश्यं भवति। #वन्दे_वाल्मीकिम्
#valmikijayanti
सद्धर्मस्मृत्युपस्थाने वर्तमानं जम्बूद्वीपवर्णनं रामायणस्थितदिग्वर्णनम्अनुहरति। एवञ्च याकोविमहोदयः भाषाविज्ञानद्वारा
बौद्धकालपूर्वभवत्वं रामायणस्य प्राह। एभिः प्रमाणैः रामायणस्य बुद्धपूर्वकालिकता सिद्ध्यति। #वन्दे_वाल्मीकिम्
#valmikijayanti
सर्वैः प्रमाणैः प्रतीयते यत् रामायणं ख्रीष्टपूर्वपञ्चमशतकात् पूर्वमेव कदाचित् प्रणीतं न तु ततः अर्वाक्। अत एव वाल्मीकेरपि
कालः ख्रीष्टपूर्वपञ्चमशतकात् पूर्वम् आसीत् इति। #वन्दे_वाल्मीकिम् #valmikijayanti
वाल्मीकिः रामायणं रचितवान्। वाल्मीकेः कवित्वज्ञानाय रामायणम् एव पर्याप्तम् अस्ति। वाल्मीकिना स्वकाव्यकलायाः
प्रतिपादनाय यत्पात्रम् आधारीकृतं तस्य रामस्य चरितम् एव तादृशं यत्तद्आधारीकृत्य कोऽपि कविः साफल्यम् आसादयेत्।
#वन्दे_वाल्मीकिम् #valmikijayanti
रामायणे चतुर्विंशतिः सहस्राणि श्लोकाः सन्ति। अतःचतुर्विंशतिसाहस्रीसंहितापदेन रामायणम् अभिधीयते। यावन्ति अक्षराणि
गायत्रीमन्त्रे तावत्सहस्रपरिमाणंरामायणम् इति दृढम्। #वन्दे_वाल्मीकिम् #valmikijayanti
वाल्मीकिः रामायणनामके ग्रन्थे रामचरित्रोपस्थापनेन आदर्शमानवचरित्रस्य वर्णनम् अकरोत्। स एव रामायणग्रन्थः
सनातनधर्मस्य प्राणभूतो भवति। #वन्दे_वाल्मीकिम् #valmikijayanti
सर्वप्रथमं रामायणं काव्यं वर्तते तदनन्तरम् एव धर्मग्रन्थः इतिहासग्रन्थो वा अन्यत् किञ्चित्भवति। रामायणं तावत् आद्यं
संस्कृतकाव्यम्, तत्प्रणेता च वाल्मीकिः भवति। #वन्दे_वाल्मीकिम् #valmikijayanti
रामायणेन संस्कृतकाव्यस्य बाल्यरूपं निरूप्यते। प्रायः आदिकविः वाल्मीकिः अनुष्टुप्- छन्दसा पद्यानि रचितवान्। तथाहि
आभाणकम्- “वाल्मीकेरुपज्ञा नूनमनुष्टुप्-छन्दः" इति। #वन्दे_वाल्मीकिम् #valmikijayanti
अथारभ्येतिपर्यन्तं सर्वत्र रामायणी भाषा विशुद्धा परिष्कृता च क्वचित् क्वचिच्च अलङ्कारमण्डितापि च विद्यते।
#वन्दे_वाल्मीकिम् #valmikijayanti
रामायणे उपमारूपकाद्यलङ्काराणां वर्णनं विद्यते। कविः न कदापि वस्तुतत्त्वं जहाति। अत एवकविः सर्वत्र कवित्वं दर्शयितुम्
इच्छति। #वन्दे_वाल्मीकिम् #valmikijayanti
आदिकविः वाल्मीकिः अशोकवाटिकास्थायाः सीतायाः स्वरूपम् उपमादिभिः प्रकाशयति। #वन्दे_वाल्मीकिम् #valmikijayanti
कवितायाः उद्देश्यं लोकहितं स्यात् इति वाल्मीकिः न कदापि विस्मृतवान्। #वन्दे_वाल्मीकिम् #valmikijayanti
उपदेशाः काव्यस्य माहात्म्यं वर्धयन्ति। एभिः एव साहित्यगुणैः वाल्मीकिःभारतीयकाव्यधारायाः हिमवान् मन्यते।
#वन्दे_वाल्मीकिम् #valmikijayanti
कूजन्तं राम रामेति मधुरं मधुराक्षरम्।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम्।। #वन्दे_वाल्मीकिम् #valmikijayanti
काव्यानाम् आदर्शभूतं रामायणम्। कवीनाम् आदर्शभूतश्च वाल्मीकिः इति कथयन्ति विद्वांसः। #वन्दे_वाल्मीकिम्
#valmikijayanti
यदि वाल्मीकिः न अभविष्यत् तदा कवयः कीदृशा भवन्ति इति निर्णयो दुष्करः भवेत्। #वन्दे_वाल्मीकिम् #ValmikiJayanti
कवयः क्रान्तदर्शिनो भवन्ति, ते यन्मनोरमं तत्त्वं पश्यन्ति, तदेव शब्दद्वारा लोकानुपदेष्टुं रञ्जयितुं च चित्रयन्ति।
स्वानुभूतवस्तुजातस्य शब्दचित्रोपस्थापनम् एव काव्यम्। #वन्दे_वाल्मीकिम् #valmikijayanti
रामाणयात् पूर्वम् उपनिषदादौ यद्यपि पद्यानिआसन् परन्तु तेषु लौकिकं छन्दो नासीत्, वाल्मीकिः हि सर्वप्रथमं लौकिकं
छन्दोऽवतारितवान्। #वन्दे_वाल्मीकिम् #valmikijayanti
यावत्पर्यन्तं कवेः समक्षे वर्णनीयं वस्तु किमपि नागतं तावदयं मौनः आसीत्। यदा एव क्रौञ्चवधं करुणरसंदृष्टवान्, तदा एव
अकस्मात् एव अस्य मुखात् काव्यप्रवाहः निर्गतः आसीत्। तदस्य काव्ये करुणरस एव प्रधानत्वं भजते। #वन्दे_वाल्मीकिम्
#valmikijayanti
वाल्मीकेः काव्ये करुण एव संभवति। रामायणे हि करुणोरसः स्वयम् आदिकविना वाल्मीकिना प्रोक्तः। #वन्दे_वाल्मीकिम्
#valmikijayanti
वाल्मीकिना स्वकाव्यकलायाः प्रदर्शनाय यत्पात्रम् आधारीकृतं तस्य रामस्य चरितम् एव तादृशं यत् तत् आधारीकृत्य कोऽपि
कविः साफल्यम् आपद्येत। #वन्दे_वाल्मीकिम् #valmikijayanti
रामराज्यपदम् अधुना अपि आदर्शराज्यपर्यायताम् आपन्नमितिरामस्य आदर्शशासकता अवगम्यते। व्यवहारेण रामः
आदर्शमनुष्यः आसीत्। तादृशं चरित्रं स्वीये काव्येसृष्टवान् आदिकविः वाल्मीकिः। #वन्दे_वाल्मीकिम् #valmikijayanti
संसारे किम् अपि काव्यं लोकप्रियतायां रामायणस्य समतां कर्तुं न शक्नोति, अत एव अस्यप्रचारोऽपि पूर्णतया जातः।
#वन्दे_वाल्मीकिम् #valmikijayanti

• • •

Missing some Tweet in this thread? You can try to force a refresh
 

Keep Current with Samskrita Bharati Dakshina Karnataka

Samskrita Bharati Dakshina Karnataka Profile picture

Stay in touch and get notified when new unrolls are available from this author!

Read all threads

This Thread may be Removed Anytime!

PDF

Twitter may remove this content at anytime! Save it as PDF for later use!

Try unrolling a thread yourself!

how to unroll video
  1. Follow @ThreadReaderApp to mention us!

  2. From a Twitter thread mention us with a keyword "unroll"
@threadreaderapp unroll

Practice here first or read more on our help page!

More from @SB_DakshinaKar

31 Oct
Valmiki played an important role in Uttara Kanda, the last chapter of epic Ramayana. The Uttara
Kanda was not original work of Valmiki. It is believe to be taken up from Sesha Ramayana.
#वन्दे_वाल्मीकिम् #ValmikiJayanti
According to the legend Rama send Sita to forest. Sita finds refuge in Sage Valmiki's ashram,
where she gives birth to twin boys Lava and Kusha. Lava and Kusha were Valmiki's first disciples
to whom he taught the Ramayana. #वन्दे_वाल्मीकिम् #ValmikiJayanti
Bala Kanda of the epic also tells the story of Valmiki narrating the Ramayana to his disciples Lava
and Kusha. #वन्दे_वाल्मीकिम् #valmikijayanti
Read 54 tweets

Did Thread Reader help you today?

Support us! We are indie developers!


This site is made by just two indie developers on a laptop doing marketing, support and development! Read more about the story.

Become a Premium Member ($3/month or $30/year) and get exclusive features!

Become Premium

Too expensive? Make a small donation by buying us coffee ($5) or help with server cost ($10)

Donate via Paypal Become our Patreon

Thank you for your support!

Follow Us on Twitter!