Here is a collection of 38 phrases of natural expression in संस्कृतम् used by कालिदास in his famous drama अभिज्ञानशाकुन्तलम् ।

I was surprised to observe the similarity of expressions used even in today's parlance.

Add these to your Sanskrit vocabulary and speak Kālidāsa.
1) Phrase = हला प्रियंवदे​
Rough translation = हे प्रियंवदा​

Example usage =

अनसूया- हला प्रियंवदे, यद्यपि गान्धर्वेण विधिना निर्वृत्तकल्याणा​
शकुन्तला ऽनुरूपभर्तृगामिनी संवृत्तेति विर्वृतं मे हृदयं, तथाप्येतावत्​
चिन्तनीयम् ।
2) यथाहं पश्यामि​
जैसे मैं समझती हूँ​
As I understand​
As I see​

अनसूया- यथाहं पश्यामि तथा तस्यानुमतं भवेत् ।
3) अयमहं भोः​
यह मैं (आया) हूँ ​
Hey, this is me​
I have come​

प्रियंवदा- युज्यते (इति तदेव कर्माभिनयतः)​
(नेपथ्ये) अयमहं भोः ।​
अनसूया- (कर्णं दत्वा) अतिथीनामिव निवेदितम् ।
4) अनसूये त्वरस्व त्वरस्व​
अनसूया शीघ्रता करो​
Hey do it quickly​

(नेपथ्ये) गौतमि, आदिश्यन्तां शार्ङ्गरवमिश्राः शकुन्तलानयनाय ।​
प्रियंवदा- (कर्णंदत्वा) अनसूये त्वरस्व । एते खलु हस्तिनापुरगामिनः​
ऋषयः शब्दाय्यन्ते ।
5) जाने वां नैपुण्यम्​
तुम्हारी निपुणता को मैं जानती हूँ​

सख्यौ- अये, अनुपयुक्तभूषणोऽयं जनः । चित्रकर्मपरिचयेन अङ्गेषु ते​
आभरणविनियोगं कुर्वः ।​
शकुन्तला- जाने वां नैपुण्यं। (उभे नाट्येनालंकुरुतः)
6) आचारं तावत्प्रतिपद्यस्व
आचार निभाओ

गौतमी – जाते, एष त आनन्दपरिवाहिना चक्षुषा परिष्वजमान इव​
गुरुरुपस्थितः । आचारं तावत्प्रतिपद्यस्व ।
7) तात वन्दे​
पिताजी प्रणाम करती हूँ​

गौतमी – जाते, एष त आनन्दपरिवाहिना चक्षुषा परिष्वजमान इव​
गुरुरुपस्थितः । आचारं तावत्प्रतिपद्यस्व ।​
शकुन्तला- (सव्रीडम्) तात, वन्दे ।
8) इत इतो भवती​
आप इधर से इधर से आइये​

काश्यपः – भगिन्यास्ते मार्गमादेशय ।​
शार्ड्गरवः – इत इतो भवती । (सर्वे परिक्रामन्ति)​
काश्यपः- भो भोः । सन्निहितास्तपोवनतरवः !
9) इतः पन्थानं प्रतिपद्यस्व​
इधर से मार्ग पर आ जाओ​

काश्यपः - इतः पन्थानं प्रतिपद्यस्व ।​
शकुन्तला – (सख्यौ प्रति) हला, एषा द्वयोर्युवयोर्हस्ते निक्षेपः ।
10) अयं जनः कस्य हस्ते समर्पितः​
यह जन किसके हाथों में सौंपा जा रहा है​

इतः पन्थानं प्रतिपद्यस्व ।​
शकुन्तला – (सख्यौ प्रति) हला, एषा द्वयोर्युवयोर्हस्ते निक्षेपः ।​
सख्यौ - अयं जनः कस्य हस्ते समर्पितः ?
11) अलं रुदित्वा​
रोओ मत ​
Enough of crying​

सख्यौ - अयं जनः कस्य हस्ते समर्पितः ?​
काश्यपः- अनसूये, अलं रुदित्वा । ननु भवतीभ्यामेव स्थिरीकर्तव्या​
शकुन्तला ! (सर्वे परिष्क्रामन्ति)
12) तत्रभवतः​
उनके​

काश्यपः- तेन हीमां क्षीरवृक्षाच्छायामाश्रयामः ।​
(सर्वे परिष्क्रम्य स्थिताः)​
काश्यपः- (आत्मगतम्) किं नु खलु तत्र भवतो दुष्यन्तस्य युक्तरुपमस्माभिः​
सन्देष्टव्यम् ? (इति चिन्तयति)
13) मैवं मन्त्रयस्व​
ऐसा मत कहो​

शकुन्तला- (जनान्तिकं) हला, पश्य ।नलिनीपत्रान्तरितम् अपि​
सहचरमपश्यन्त्यातुरा चक्रवाक्यारटति दुष्करमहं करोमीति ।​
अनसूया- सखि, मैवं मन्त्रयस्व ।
14) आज्ञापयतु भवान्​
आप आज्ञा दें । ​

काश्यपः- शार्ङ्गरव, इति त्वया मद्वचनात् स राजा शकुन्तलां पुरस्कृत्य​
वक्तव्यः ।​
शार्ङ्गरवः- आज्ञापयतु भवान् ।
15) गृहीतः सन्देशः​
सन्देश ग्रहण कर लिया गया है ।​

शार्ङ्गरवः – गृहीतः सन्देशः ।
16) वत्से त्वमिदानीमनुशासनीया असि​
बेटी अब तुम्हें कुछ शिक्षा देनी है । ​

काश्यपः- वत्से, त्वमिदानीमनुशासनीयासि । वनौकसोऽपि सन्तो लौकिकज्ञा​
वयम् ।​
शार्ङ्गरवः – न खलु धीमतां कश्चिदविषयो नाम !
17) कथं वा गौतमी मन्यते​
अथवा गौतमी क्या सोचती है ?​
गौतमी का क्या मत है ?​

कथं वा गौतमी मन्यते ?​
गौतमी – एतावान् वधूजनस्योपदेशः । जाते, एतत्खलु सर्वं अवधारय ।​
काश्यपः- वत्से, परिष्वजस्व मां सखीजनं च ।
18) वत्से परिष्वजस्व​
बेटी गले मिलो​

गौतमी – एतावान् वधूजनस्योपदेशः । जाते, एतत्खलु सर्वं अवधारय ।​
काश्यपः- वत्से, परिष्वजस्व मां सखीजनं च ।​
शकुन्तला- तात, इत एव किं प्रियंवदानसूये सख्यौ निवर्तिष्येते ?
19) वत्से किमेवं कातरा असि​
बेटी क्यों इस प्रकार व्याकुल हो रही हो​

शकुन्तला- (पितरमश्लिष्य ) कथमिदानीं तातस्याङ्कात्परिभ्रष्टा​
मलयतटोन्मूलिता चन्दनलतेव देशान्तरे जीवितं धारयिष्यामि ? ।​
काश्यपः- वत्से, ! किमेवं कातरासि ?
20) आकम्पिता अस्मि​
मैं घबरा गयी हूँ​
मैं काम्प गयी हूँ​

सख्यौ - (तथा कृत्वा) सखि, ! यदि नाम स राजा प्रत्यभिज्ञानमन्थरो​
भवेत् ततः तस्मै इदमम् आत्मनामधेयाङ्कितम् अङ्गुलीयकं दर्शय ।​
शकुन्तला – अनेन सन्देहेन वाम् आकम्पितास्मि !
21) मा भैषीः । अतिस्नेहः पापशङ्की । ​
डरो मत । ​ अत्यधिक प्रेम पाप की शङ्का करने वाला होता है । ​
अर्थात् अत्यधिक स्नेह के कारण अनिष्ट की शङ्का होती है । ​

सख्यौ - मा भैषीः अतिस्नेहः पापशङ्की !​
शार्ङ्गरवः – युगान्तरमारुढः सविता । त्वरतामत्रभवती ।
22) त्वरताम् अत्रभवती​
आदरणीया आप शीघ्रता करें​

सख्यौ - मा भैषीः अतिस्नेहः पापशङ्की !​
शार्ङ्गरवः – युगान्तरमारुढः सविता । त्वरतामत्रभवती ।​
शकुन्तला – (आश्रमाभिमुखी स्थित्वा ) तात, कदा नु भूयः तपोवनं प्रेक्षिष्ये ?
23) अवैमि ते तस्यां सोदर्यस्नेहम्​
मैं जानता हूँ कि तुम्हारा उस पर सगी बहन सा स्नेह है । ​

शकुन्तला- (स्मृत्वा) तात, लताभगिनीं वनज्योत्स्नां तावत् आमन्त्रयिष्ये ।​
काश्यपः- अवैमि तेऽस्यां सोदर्यास्नेहम् । इयं तावद्दक्षिणेन ।
24) अवसितमण्डना असि​
प्रसाधन से परीपूर्ण हो गयी हो​

सख्यौ – हला शकुन्तले, अवसितमण्डनासि । परिधत्स्व साम्प्रतं​ क्षौमयुगलम् ।
25) इदमपि बहु मन्तव्यम्​
यह बहुत समझने योग्य है​
This is to be greatly understood​

उभे- (मङ्कलपात्राण्यादाय, उपविश्य) हला, सज्जाभव, यावत्ते​
मङ्गलसमालम्भनं परिचयावः ।​
शकुन्तला- इदमपि बहु मन्तव्यम् ।दुर्लभमिदानीं सखीमण्डनं भविष्यतीति ।​
उभे- सखि, उचितं न ते मङ्गलकाले रोदितुम् ।
26) सुखमज्जनं ते भवतु​
तुम सुखी रहो​
Drown in happiness​

तृतीया- वत्से, भर्तुर्बहुमता भव ।​
(इत्याशिषो दत्त्वा गौतमीवर्जं निष्क्रान्ताः)​
सख्यौ- (उपसृत्य) सखि, सुखमज्जनं ते भवतु ।​
शकुन्तलां- स्वागतं मे सख्योः । इतो निषीदतम् ।
27) आवां तावदुत्कण्ठां विनोदयिष्यावः​
हम दोनो अपनी उत्कण्ठा को दूर कर लेंगे​

अनसूया- (प्रियंवदामाश्लिष्य) सखि, प्रियं मे । किं त्वद्यैव शकुन्तला​
नीयत इत्युत्कण्ठासाधारणं परितोषमनुभवामि ।​
प्रियंवदा- सखि, आवां तावदुत्कण्ठां विनोदयिष्यावः । सा तपस्विनी निर्वृत्ता​
भवतु ।
28) सखि प्रियं मे​
सखी मुझको प्रसन्नता है​
I am happy​

अनसूया- (प्रियंवदामाश्लिष्य) सखि, प्रियं मे । किं त्वद्यैव शकुन्तला​
नीयत इत्युत्कण्ठासाधारणं परितोषमनुभवामि ।
29) कथमिव​
किस प्रकार​
How’s that ?​

प्रियंवदा- अग्निशरणं प्रविष्टस्य शरीरं विना छन्दोमय्या वाण्या ।​
अनसूया- (सविस्मयं) कथमिव ?​
प्रियंवदा-

दुष्यन्तेनाहितं तेजो दधानां भूतये भुवः ।​
अवेहि तनयां ब्रह्मन्नग्निगर्भां शमीमिव ॥४॥
30) हन्त प्रभातम्​
प्रातःकाल हो गया है​
It is morning​

शिष्यः- वेलोपलक्षणार्थमादिष्टोऽस्मि तत्र भवता प्रवासादुपावृत्तेन​
काश्यपेन । प्रकाशं निर्गतस्तावदवलोकयामि कियदवशिष्टं रजन्या​
इति (परिक्रम्यावलोक्य च )​
हन्त प्रभातम् !
31) को नामोष्णोदकेन नवमालिकां सिञ्चति​
भला कौन नवमालिका को गर्म जल से सींचता है​

अनसूया- प्रियंवदा द्वयोरेव (नौ मुखे) एष वृत्तान्तस्तिष्ठतु । रक्षितव्या खलु​
प्रकृतिपेलवा प्रियसखी !​
प्रियंवदा- को नामोष्णोदकेन नवमालिकां सिञ्चति ?
32) सखि एहि​
सखी आओ​
Hey come​

प्रियंवदा- सखि, एहि । देवकार्यं तावदस्या निवर्तयावः । (परिक्रामतः)​
प्रियंवदा –(विलोक्य) अनसूये, पश्य तावत् । वामहस्तोपहित​
वदनाऽलिखितेव प्रियसखी । भर्तृगतया चिन्तयात्मानमपि नैषा​ विभावयति । किं पुनरागन्तुकम् ।
33) ततस्ततः​
और और​
Then then​
प्रियंवदा- यदा निवर्तितुं नेच्छति, तदा विज्ञापितो मया “ भगवन्, प्रथम​
इति प्रेक्ष्याविज्ञानतपः प्रभावस्य दुहितृजनस्य भगवतैकोऽपराधो​
मर्षयितव्य” इति ।​
अनसूया- ततस्ततः ।​
प्रियंवदा- ततो, “न मे वचनमन्यथाभवितुमर्हति । किं तु अभिज्ञानाभरण-​
दर्शनेन ...
34) हा धिक् हा धिक्​
हाय धिक्कार है धिक्कार है​

प्रियंवदा- हा धिक् ! हा धिक् ! अप्रियमेव संवृत्तम् । कस्मिन्नपि​
पूजार्हेऽपराध्दा शून्यहृदया शकुन्तला ।​

न खलु यस्मिन् कस्मिन्नपि । एष दूर्वासाः​
सुलभकोपो महर्षिः । तथा शप्त्वा वेगबलोत्फुल्लया दुवीरया​ गत्या प्रतिनिवृत्तः ।
35) अलमेतावद्भिः कुसुमैः​
इतने ही पुष्प पर्याप्त हैं ​
These many flowers are enough​

अनसूया- अद्य पुनर्हृदयेनासन्निहिता ! अलमेतावद्मिः कुसुमैः ।
36) युज्यते​
ठीक है​
Okay​

अनसूया- ननु सख्याः शकुन्तलायाः सौभाग्यदेवतार्चनीया ।​
प्रियंवदा- युज्यते (इति तदेव कर्माभिनयतः)​
(नेपथ्ये) अयमहं भोः ।
37) विस्रब्धा भव​
निश्चिन्त रहो​

प्रियंवदा- विस्रब्धा भव । न तादृशा आकृतिविशेषा गुणविरोधिनो भवन्ति ।​
तात इदानीमिमं वृत्तान्तं श्रुत्वा न जाने किं प्रतिपत्स्यत इति ।
38) शिवास्ते पन्थानः सन्तु​
तुम्हारे मार्ग मङ्गलमय हों​
Happy journey​

काश्यपः – (सनिःश्वासम्)​
शममेष्यति मम शोकः कथं नु वत्से ! त्वया रचितपूर्वम् ? ।​
उटजद्वारविरुढं नीवारबलिं विलोकयतः ॥ २१ ॥​
गच्छ । शिवास्ते पन्थानः सन्तु ।

• • •

Missing some Tweet in this thread? You can try to force a refresh
 

Keep Current with चैतन्यः

चैतन्यः Profile picture

Stay in touch and get notified when new unrolls are available from this author!

Read all threads

This Thread may be Removed Anytime!

PDF

Twitter may remove this content at anytime! Save it as PDF for later use!

Try unrolling a thread yourself!

how to unroll video
  1. Follow @ThreadReaderApp to mention us!

  2. From a Twitter thread mention us with a keyword "unroll"
@threadreaderapp unroll

Practice here first or read more on our help page!

Did Thread Reader help you today?

Support us! We are indie developers!


This site is made by just two indie developers on a laptop doing marketing, support and development! Read more about the story.

Become a Premium Member ($3/month or $30/year) and get exclusive features!

Become Premium

Too expensive? Make a small donation by buying us coffee ($5) or help with server cost ($10)

Donate via Paypal Become our Patreon

Thank you for your support!

Follow Us on Twitter!