"Wise readers—do not swear angrily at me dropping a letter, or not dotting an i in my haste. My head bows prostrate, hovering at your lotus-feet like a bee. Bear with me."
archive.org/details/Epigra…
यादृशं पुस्तकं दृष्टं तादृशं लिखितं मया ।
यदि शुद्धम् अशुद्धं वा मम दोषो न दीयते ॥
archive.org/details/Catalo…
उदकानलचौरेभ्यो मूषकेभ्यो विशेषतः । कष्टेन लिखितं शास्त्रं यत्नेन परिपालयेत् ॥
भग्नपृष्ठकटिग्रीवं स्तब्धदृष्टिरधोमुखम् । कष्टेन लिखितं ग्रन्थं यत्नेन परिपालयेत् ॥
जलाद्रक्षेत्तैलाद्रक्षेद्रक्षेच्छिथिलबन्धनात्। मूर्खहस्ते न मां दद्यादिति वदति पुस्तकम् ॥
अग्ने रक्ष! जलाद्रक्ष! रक्ष मां श्लथबन्धनात् । पुनश्च याचकाद् रक्ष! याचकान्तं हि पुस्तकम् ॥
संभूष्यं सदपत्यवत् परकरात् रक्ष्यं च सुक्षेत्रवत्
संशोध्यं व्रणिताङ्गवत् प्रतिदिनं वीक्ष्यं च सन्मित्रवत् ।
बध्यं वध्यवदश्लथं दृढगुणैः स्मर्यं हरेर्नामवत्,
नैवं सीदति पुस्तकं खलु कदाप्येतद् गुरूणां वचः॥
taken from:
archive.org/details/Wealth…
लेखनेनास्य यो जातः श्रमो मम मतत्तरः ।
तेन प्रीतो हरिर्नित्यं ज्ञानदोऽस्त्वक्षयं महत् ॥
अपरं पुस्तकं वीक्ष्य शोधनीयं सदा बुधैः ।
हीनाधिकैः स्वरैर्वर्णैरस्माकं दूषणं न हि ॥
यादृशमिति न्यायान्न मे दोषः
shodhganga.inflibnet.ac.in/bitstream/1060…
अर्जितं भूरि कष्टेन पुस्तकं लिखितं मया ।
हर्तुमिच्छति यः पापी तस्य वंसक्षयो भवेत् ॥